Posts

Showing posts with the label मृतसञ्जीवन स्तोत्रम् ।। 🕉️

मृतसञ्जीवन स्तोत्रम् ।। 🕉️

🕉️🪔🕉️🚩🕉️🙏🕉️🌹🕉️🎑       🕉️  ।। मृतसञ्जीवन स्तोत्रम् ।। 🕉️ एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं। मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा।।१।। सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं। महादेवस्य कवचं मृतसञ्जीवनामकं।।२।। समाहितमना भूत्वा शृणुष्व कवचं शुभं। शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा।।३।। वराभयकरो यज्वा सर्वदेवनिषेवितः। मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा।।४।। दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः। सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा।।५।। अष्टदसभुजोपेतो दण्डाभयकरो विभुः। यमरूपि महादेवो दक्षिणस्यां सदावतु।।६।। खड्गाभयकरो धीरो रक्षोगणनिषेवितः। रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु।।७।। पाशाभयभुजः सर्वरत्नाकरनिषेवितः। वरुणात्मा महादेवः पश्चिमे मां सदावतु।।८।। गदाभयकरः प्राणनायकः सर्वदागतिः। वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा।।९।। शङ्खाभयकरस्थो मां नायकः परमेश्वरः। सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः।।१०।। शूलाभयकरः सर्वविद्यानमधिनायकः। ईशानात्मा तथैशान्यां पातु मां परमेश्वरः।।११।। ऊर्ध्वभागे ब्रःमरूपी विश्वात्मा...